Monday, May 30, 2011

Param Guru Mahima


                   
           श्री कृष्णानन्दस्तुतिः
सर्वशास्त्रार्थनिष्णातं निगमागमबोधकम् । 
श्री कृष्णाख्यं यतिश्रेष्ठं प्रणमामि पुनः पुनः ॥1 
कृष्णानन्दं जगद्वन्द्यं कारुण्यामृतसागरम् । 
स्वात्मानन्दनिमग्नञ्च शिवसायुज्यसाधकम् ॥2 
जीवितं यस्य लोकायऽऽलोकायैव च जीवनम् । 
महादेव समं मान्यममान्यानपि मानदम् ॥ 3 
हार्दं लोकहितार्थाय मनोहारि च यद्वचः । 
राकेन्दुरिव दिव्याय भव्याय नमो नमः ॥ 4 
काषायवस्त्रभूषाय मालारुद्राक्षधारिणे । 
श्री कृष्णानन्दसंज्ञाय गुरुणां गुरवे नमः। 5
यतिमण्डलमार्तण्डमानन्दान्बुधिसन्निभम् 
 नमामि शिरसा देवं कृष्णानन्दं यतिं वरम् ॥6 
अज्ञानतिमिरध्वान्तं विप्रकुलसमुद्भवम् ।
नमामि मनसा देवं कृष्णानन्दं यतिं वरम् ॥7 
नमः परमहंसाय सुधीभिर्वन्दिताय च । 
श्री कृष्णानन्दसंज्ञाय गुरुणां गुरवे नमः ॥8 
अष्टश्लोकी स्तुतिरेषा पुण्यानन्दविवर्धिनी । 
विरचिता ह्यनन्तेन गुरुदेव प्रसादतः ॥

No comments:

Post a Comment